logo
About Us

Reviving Sanskrit in Odisha

अस्माकं दृष्टिः : पाठयेम संस्कृतं जगति सर्वमानवान् ! प्रापयेम भारतं सपदि परमवैभवम् !! अस्माकं कार्यम्: संस्कृतभाषायाः पुनरुज्जीवनम्, संस्कृतेः पुनरुत्थानम्, भारतस्य पुनर्निर्माणम् । संस्कृतभारती (या १९८१ तमे वर्षे आरब्धा) कश्चन उद्यमः यः निरन्तरं संस्कृतभाषायाः, साहित्यस्य, परम्परायाः, संस्कृते निहितज्ञानभण्डारस्य च संरक्षणं विकासं प्रचारं च करोति । संस्कृतभारती निष्ठावतां समर्पितानां कार्यकर्तॄणां सङ्घटनं, ये विना लाभापेक्षां समाजे सर्वत्र जाति-धर्म-वर्ग-लिङ्गभेदान् परित्यज्य संस्कृतज्ञानं प्रसारयन्ति । संस्कृतभारत्याः अखिलभारतीयः केन्द्रीयकार्यालयः नवदेहल्याम् अस्ति, तथैव स्थानीयाः कार्यालयाः राज्यराजधानीषु, जनपदकेन्द्रेषु वा सन्ति ।

Vision

संस्कृतपठनस्य प्रोत्साहनं समाजस्य सर्ववर्गेभ्यः संस्कृताध्ययनार्थम् अवसरप्रकल्पनम् । संस्कृतस्य प्रचाराय वैश्विकस्तरे संस्कृतसंस्थाभिः सह संयोजनम् । संस्कृतपरम्परायाः संस्कृते निहितज्ञानस्य विषये च यथा योगः, मनोविज्ञानं, कला, सङ्गीतं, नृत्यम्, आयुर्वेदः इत्यादिशास्त्रेषु अनुसन्धानकार्याणां व्यवस्थापनं सहयोगो वा । संस्कृतभाषायाः पारम्परिकशास्त्राणां संरक्षकेभ्यः प्रचारकेभ्यश्च सहयोगः, सहकारः, छात्रवृत्तिः, मानदेयम्, इत्यादीनाम् आलम्बनकार्याणां व्यवस्थापनम् । संस्कृते निहितज्ञानस्य संस्कृतविषयकसमाचारस्य सम्प्रेषणार्थं प्रचारार्थं च पुस्तकानां, पत्त्रिकाणां, वार्तापत्त्र-पत्त्रिकाणां च प्रकाशनम् । संस्कृतभाषायाः शास्त्रपरम्परायाश्च प्रचारार्थम् अपेक्षितानाम् आर्थिकस्रोतसां निर्माणम् ।

Mission

To make Sanskrit accessible, spoken and joyful through courses, camps, publications and a strong volunteer movement.

Multilingual

Our story, in every language

Sanskrit

जयतु संस्कृतम् इति ओडिशाराज्ये संस्कृतभाषायाः प्रचारार्थं कार्यरता संस्था अस्ति।

Hindi

जयतु संस्कृतम् ओडिशा के सभी जिलों में संस्कृत भाषा, शिक्षा और संभाषण को बढ़ावा देने वाली एक ग़ैर-लाभकारी संस्था है।

Odia

ଜୟତୁ ସଂସ୍କୃତମ୍ ଓଡ଼ିଶାର ସମସ୍ତ ଜିଲ୍ଲାରେ ସଂସ୍କୃତ ଭାଷା ଓ ଶିକ୍ଷାର ପ୍ରସାରରେ କାର୍ଯ୍ୟରତ ଏକ ଅଣ-ଲାଭକାରୀ ସଂଗଠନ।

English

अस्माकं दृष्टिः : पाठयेम संस्कृतं जगति सर्वमानवान् ! प्रापयेम भारतं सपदि परमवैभवम् !! अस्माकं कार्यम्: संस्कृतभाषायाः पुनरुज्जीवनम्, संस्कृतेः पुनरुत्थानम्, भारतस्य पुनर्निर्माणम् । संस्कृतभारती (या १९८१ तमे वर्षे आरब्धा) कश्चन उद्यमः यः निरन्तरं संस्कृतभाषायाः, साहित्यस्य, परम्परायाः, संस्कृते निहितज्ञानभण्डारस्य च संरक्षणं विकासं प्रचारं च करोति । संस्कृतभारती निष्ठावतां समर्पितानां कार्यकर्तॄणां सङ्घटनं, ये विना लाभापेक्षां समाजे सर्वत्र जाति-धर्म-वर्ग-लिङ्गभेदान् परित्यज्य संस्कृतज्ञानं प्रसारयन्ति । संस्कृतभारत्याः अखिलभारतीयः केन्द्रीयकार्यालयः नवदेहल्याम् अस्ति, तथैव स्थानीयाः कार्यालयाः राज्यराजधानीषु, जनपदकेन्द्रेषु वा सन्ति ।

What we do

Our activities

Spoken Sanskrit

Camps and courses to help learners speak Sanskrit confidently.

Free & Paid Courses

Structured programmes for beginners and advanced learners.

Books & Publications

Printed Sanskrit books and teaching materials.

District-wise Network

Volunteers and coordinators in all 30 districts of Odisha.

Training Programmes

Teacher training in Sanskrit pedagogy.

Cultural Programmes

Workshops, poetry recitals, and cultural events.